Tuesday, November 14, 2023

Sri Krishna Vilasa Kavyam by Sri Sukumara Kavi on Krishna

॥ श्रीः ॥

श्रीकृष्णविलासकाव्यम् सुकुमारकविविरचितम् 

    प्रथमः सर्गः

अस्ति श्रियः सद्म सुमेरुनामा समस्तकल्याणनिधिर्गिरीन्द्रः ।

तिष्ठन्निदं विश्वमनुप्रविश्य स्वेनात्मना विष्णुरिवोर्जितेन ॥ १-०१॥


मिथस्तिरोभावविलोकनाभ्यां सङ्क्रीडमानाविव बालकौ द्वौ ।

पार्श्वेषु यस्याशु परिभ्रमन्तौ चन्द्रांशुमन्तौ नयतो दिनानि ॥ १-०२॥


उच्चैश्शिखः काञ्चनगौरवर्णस्तमो निगृह्णन्महसा निजेन ।

दीपस्त्रयाणामिव विष्टपानां यो भाति पर्यन्तचरत्पतङ्गः ॥ १-०३॥


यस्या पतित्वे विहिताभिलाषः करोति तीव्राणि तपांसि लोकः ।

बिभर्ति रत्नाकरमेखलां तामङ्केन पुत्रीमिव यो धरित्रीम् ॥ १-०४॥


महान्ति दानानि मखानुदग्रान् पराञ्चि पानाशनयोस्तपांसि ।

शरीरिणः शान्तमलैर्मनोभिः कुर्वन्ति यच्छृङ्गनिवासकामाः ॥ १-०५॥


सुरा युगान्तेषु सह प्रियाभिर्न्निषेदिवांसो यदधित्यकासु ।

उदन्वतामैक्यमुपागतानां पश्यन्ति कल्लोलशतप्रचारान् ॥ १-०६॥


पुष्पाणि शय्यास्सुरपादपानां क्रीडागृहाः काञ्चनगह्वराणि ।

भवन्ति च स्वर्गविलासिनीनां रत्नाङ्कुरा यत्र रतिप्रदीपाः ॥ १-०७॥


स्वर्गौकसस्स्वर्णमहीषु पीताः श्वेतत्विषो रूप्यमयीषु भूषु ।

नीलाश्च नीलोपलमेदिनीषु ज्ञातुं मिथो यत्र न शक्नुवन्ति ॥ १-०८॥


दरीगृहोत्सङ्गगतेरनूरोः कशाभिघातध्वनिभिः सकम्पाः ।

सद्यः प्रियानुज्झितमानदोषाः सुराङ्गना यत्र परिष्वजन्ते ॥ १-०९॥


नेतुं त्रपानम्रमुखीरनीशाः स्फुटानि यत्स्वर्णगुहान्तराणि ।

सिद्धाः प्रयत्नेन विना नवोढाः नयन्ति नीलोपलगह्वराणि ॥ १-१०॥


यत्रोद्यतानां कुसुमापचाये कान्तासु कल्पद्रुमवाटिकासु ।

विभान्ति सुत्रामविलासिनीनां पदानि लाक्षारसपाटलानि ॥ १-११॥


पयोदमार्गव्यतिलङ्घिनीषु हंसाः शिरःपुष्करिणीषु यस्य ।

वर्षागमेऽप्यश्रुतमेघनादाः न कुर्वते मानसदीर्घयात्राम् ॥ १-१२॥


छन्नेषु यस्मिन् कनकोज्ज्वलाभिरामूलचूडं नवमञ्जरीभिः ।

गन्धेन विज्ञाय पतन्ति भृङ्गाः श‍ृङ्गान्तरारग्वधपादपेषु ॥ १-१३॥


मन्दाकिनी यच्छिखरे वहन्ती कुल्यापथाभ्यन्तरसम्प्रविष्टा ।

बालेव तद्रक्षणसम्प्रवृत्ता दिने दिने सिञ्चति पुष्पवाटीम् ॥ १-१४॥


श्रियाभिरामश्शरणं सुराणामलङ्घनीयो महता महिम्ना ।

विराजमानो वनमालया च यः शार्ङ्गधन्वानमनुप्रयाति ॥ १-१५॥


पुरा पुराणां त्रितयं दिधक्षोरुमापतेः कार्मुकतां प्रपन्नः ।

मध्येन वज्राङ्कुशमत्स्यचिह्नं योऽद्यापि तन्मुष्टिपदं दधाति ॥ १-१६॥


श‍ृङ्गाग्रभाजां सुरसुन्दरीणां मुखानि पश्यन्नमलानि चन्द्रः ।

निगूहितुं नूनमुरःकलङ्कं ह्रियेव यत्सानुपथेन याति ॥ १-१७॥


मनोभिरामे शिखरे तदीये सहोपविष्टं सुरसिद्धसङ्घैः ।

अवोचदागत्य कृतप्रणामा कदाचिदुर्वी कमलाधिवासम् ॥ १-१८॥


पुमानिवाहं भवतः पुरस्ताद्ब्रवीमि किञ्चित् प्रतिपद्य धैर्यम् ।

पीडा मदीया परमत्र हेतुर्निर्ल्लज्जता नन्वखिलोपहास्या ॥ १-१९॥


सृष्टास्त्वया दत्तवराश्च दैत्याः भारेण मां सम्प्रति पीडयन्ति ।

बले प्रमाणे च भवन्ति येषां नैवोपमानं कुलभूभृतोऽपि ॥ १-२०॥


स्वविक्रमोन्मूलितराजकानां जयैषिणामद्य परस्परेण ।

तेषां रणक्षोणिषु सिंहनादैर्निर्घातघोरैर्गिरयः स्फुटन्ति ॥ १-२१॥


मुहुर्बलादुन्नमयत्यहीन्द्रे मद्भारभुग्नं फणचक्रवालम्।

मम प्रकम्पाश्चलिताब्धिशैलाः दिग्दन्तिनो हन्त कदर्थयन्ति ॥ १-२२॥


आशामुखेषु भ्रमतामजस्रं तेषां चमूभिः परिसर्पिणीभिः ।

तिरोहितां भानुमतो मयूखाः न क्वापि मां सम्प्रति संस्पृशन्ति ॥ १-२३॥


सन्नास्मि दैतेयभरेण साहं फणीश्वरस्सीदति मद्भरेण ।

तद्भारशीर्यन्निजकर्परस्य धिक् तामवस्थां कमठेश्वरस्य ॥ १-२४॥


भारावसीदद्फणमण्डलस्य फणीश्वरस्योपरि दुःस्थिताऽहम् ।

आसन्नपातास्मि तटीव नद्याः प्रवाहवेगेन विलुप्तमूला ॥ १-२५॥


निवेदिता देव मया दशेयमनुक्तिदोषो मयि नोपपाद्यः ।

निवेद्यते रक्ष्यजनेन दुःखं ततः परस्तात् प्रभवः प्रमाणम् ॥ १-२६॥


इत्युक्तवत्यामुचितं पृथिव्यां चिन्ताबलेन स्तिमितो मुहूर्तम् ।

मुखानि पश्यन्नमृताशनानां देवः प्रजानां पतिरित्युवाच ॥ १-२७॥


नासत्यमेतद्यदवोचदुर्वी स्वकर्मणः साधु फलं मयाऽऽप्तम् ।

मद्वर्द्धिता मामवमत्य दैत्याः बलादुपघ्नन्ति जगन्ति यत्ते ॥ १-२८॥


अतीतकार्यानुशयेन किं स्यादशेषविद्वज्जनगर्हितेन ।

सुराः समुन्मूलनमाशु तेषां कर्तुं यतध्वं जगतां हिताय ॥ १-२९॥


सद्यस्समुत्तिष्ठत चिन्तयालं चिन्ता हि कार्यप्रतिबन्धहेतुः ।

यामः पृथिव्या सह यत्र तत्र नारायणो दानवकालरात्रिः ॥ १-३०॥


अस्त्वेवमित्यादरपूर्वमेव स स्वीकृतोक्तिस्सुरसिद्धसङ्घैः ।

सरोजजन्मा सह तैः प्रतस्थे विहायसा विश्वपतेस्सकाशम् ॥ १-३१॥


एलापरिष्वङ्गलसत्तमालं वेलाधिरूढस्खलदूर्मिमालम् ।

ददर्श धाता मनसोऽनुकूलं पयःपयोधेरचिरेण कूलम् ॥ १-३२॥


ददर्श च क्षीरमयं समुद्रं कैलासश‍ृङ्गोन्नतफेनकूटम् ।

पुण्यं पयःकेलिसमुत्सुकानां श्रियः सखीनामवगाहनेन ॥ १-३३॥


आनन्दयामास दिवौकसस्तानाघ्रातशेषो मुनिमण्डलेन ।

प्रकामपुण्यः पवनोपनीतो वैकुण्ठवक्षस्तुलसीसुगन्धः ॥ १-३४॥


गन्धानुसारेण विसृष्टनेत्रैर्हिरण्यगर्भप्रमुखैरमर्तैः ।

नवार्ककल्पं ददृशे मुरारेर्वक्षस्थलीकौस्तुभरत्नधाम ॥ १-३५॥


अपह्नुताशेषमनोविकारं दिविस्पृशा तूर्यरवेण मिश्रम् ।

आकर्ण्य वैकुण्ठविलासिनीनां गीतध्वनिं हर्षमयासिषुस्ते ॥ १-३६॥


आसक्तिमालक्ष्य विनीतवेषा स्वमौलिविन्यस्तकरास्सुरास्ते ।

आलोकयामासुरशेषनाथं सविग्रहं पुण्यमिव प्रजानाम् ॥ १-३७॥


प्रवृद्धहेमाभरणप्रकाशं तमालनीलं जलधौ शयानम् ।

तटिल्लताढ्यं पयसोऽतिपानादनीशमुद्गन्तुमिवाम्बुवाहम् ॥ १-३८॥


तरङ्गवातेन पयःपयोधेरापूर्यमाणं करपाञ्चजन्यम् ।

वामेन तिर्यग्वलता सलीलं सम्भावयन्तं मुहुरीक्षणेन ॥ १-३९॥


प्रतिक्षणं प्रेमविशेषजाभिस्सम्भावनाभिः कमलासनायाः ।

पुराऽऽत्मना कल्पितमम्बुराशेः प्रमार्जयन्तं मथनावमानम् ॥ १-४०॥


पर्यायतः पाणिधृतं सरोजं विन्यस्य विन्यस्य दृशोः पदव्याम्।

निद्रां प्रबोधं च मुहुर्न्नयन्तीं पद्मासनां सस्मितमीक्षमाणाम् ॥ १-४१॥


स्वच्छस्वदेहप्रतिबिम्बितेन फणाश्मजालेन फणीश्वरस्य ।

भास्वत् फलस्तोमनिरन्तरस्य वहन्तमाभां वटपादपस्य ॥ १-४२॥


अजस्रमासीनरथाङ्गशङ्खमतिप्रसन्नं कमलाधिवासम् ।

सन्तापविच्छेदकरं प्रजानां ह्रदं महीयांसमिवाभिगम्यम् ॥ १-४३॥


वक्तुं मिथो राहुविचेष्टितानि कर्णद्वयाभ्यर्णमुपेयिवांसौ ।

अलब्धकालाविव भानुचन्द्रौ रथाङ्गशङ्खौ दधतं कराभ्याम् ॥ १-४४॥


द्वारस्थसेनापतिचोदितेन निवारिताः कञ्चुकिमण्डलेन ।

सुराः प्रमोदस्खलितैर्वचोभिः स्थित्वैव ते व्योमनि तुष्टुवुस्तम् ॥ १-४५॥


नमः परस्मै पुरुषाय तुभ्यं गिरां धियामप्यपथि स्थिताय ।

अस्मान् पुनस्त्रातुमुदग्रमोहान् कृपाबलात् कल्पितविग्रहाय ॥ १-४६॥


भागीरथी पादकुशेशयात्ते विनिर्गता विश्वमिदं पुनीते ।

कस्त्वां पुनर्भावयतो जनस्य शुद्धिं परिच्छेत्तुमलं मनीषी ॥ १-४७॥


अनन्तशक्तेरपविक्रियस्य तिस्रस्त्रिलोकीश्वर शक्तयस्ते ।

वितन्वते स्थावरजङ्गमानामुत्पादनक्षेमविलोपनानि ॥ १-४८॥


कटाक्षमात्रेण भवाम्बुराशेः पारं परं प्रापयितुस्त्रिलोकीम् ।

सकृन्नमस्या परमातरस्ते यत्नानुरूपं हि फलं क्रियाणाम् ॥ १-४९॥


त्वं ज्योतिरापस्त्वमसि त्वमुर्वी त्वं व्योम वैश्वानरसारथिस्त्वम् ।

त्वं जीववर्गः परमस्त्वमात्मा यन्नासि किं नाम जगत्पते तत् ॥ १-५०॥


नवाभ्रवर्णं नलिनायताक्षं पीताम्बरं हारकिरीटिनं त्वाम् ।

वयं तु सेवेमहि वीक्षमाणाः सायूज्यमन्विछति कः सुखार्थी ॥ १-५१॥


अलं न निर्देष्टुमियत्तया त्वामशेषनाथ श्रुतिरग्रिमापि ।

स एव साक्षात्क्रियते पुनस्त्वमहो जितं नः सुकृतैरनल्पैः ॥ १-५२॥


तृणाय मत्वा निखिलानि शार्ङ्गिन् पदानि वैधेयमनोहराणि ।

आवृत्तिशून्यं परमं पदं ते वाञ्छन्ति वैराग्यधना महान्तः ॥ १-५३॥


इति स्तुतो देवगणेन देवो दयानिधिर्दानवकालरात्रिः ।

न्यषीददुत्थाय भरावभुग्ने भुजङ्गतल्पे भुवनैकनाथः ॥ १-५४॥


विष्वक् स वैकुण्ठविलासिनीनां सलीलमान्दोलितचामराणाम् ।

निवारयन्नग्रकरारविन्दैः कोलाहलं काञ्चनकङ्कणोत्थम् ॥ १-५५॥


प्रसादवत्या कमलासनादीन् सुरानशेषाननुगृह्य दृष्ट्या ।

उवाच वाचं दशनांशुपूरैः समेधयन् दुग्धमयं पयोधिम् ॥ १-५६॥


अधिज्यकोदण्डधरो निषङ्गी सन्नाहवान् पाणिधृतैकबाणः ।

अयं समाजो भवतां द्विषद्भ्यो भयं समावेदयति स्फुटं मे ॥ १-५७॥


अलं विलम्बेन दिवौकसस्तन्निवेद्यतामद्य कुतो भयं वः ।

अयं करो दुष्टवधोत्सुकं मे सुदर्शनं न क्षमते निरोद्धुम् ॥ १-५८॥


इत्यूचिवांसं परमं पुमांसं नत्वा शिरोभिर्बहुशः सुरास्ते ।

आरूढहर्षातिशयाः स्वमर्थमारेभिरे वक्तुमशेषमेव ॥ १-५९॥


निवार्य सर्वानपि वक्तुकामान् सेनापतिस्तानमरान् करेण ।

सविभ्रमप्रेरितया पुरस्थं दृष्ट्या सरोजासनमाजुहाव ॥ १-६०॥


अथागतस्तेन करे गृहीत्वा नीतः प्रभोरन्तिकमब्जयोनिः ।

वक्तुं नियुक्तः स कृतप्रणामो विज्ञापयामास विनीतवेषः ॥ १-६१॥


वयं त्वया दत्तविभूतयोऽपि मोहातिरेकादभिमन्यमानाः ।

कृच्छ्रे पुनस्त्वां शरणं व्रजन्तः हा निस्त्रपाणां प्रथमे भवामः ॥ १-६२॥


अपारदुःखार्णवपोतपात्रीं त्वया कृपामुद्वहतातिगुर्वीम् ।

कृतघ्नताजन्मभुवाममीषामस्माकमर्थे न किमन्वभावि ॥ १-६३॥


मनस्विलोकस्य विगर्हणीये प्रतिग्रहे वर्जयता जुगुप्साम् ।

पुरा पुरस्ताद्बलिदानवस्य प्रसारितो नाग्रकरस्त्वया किम् ॥ १-६४॥


दैत्याधिराजेन हिरण्यनाम्ना पर्याकुलं त्रातुमशेषलोकम् ।

इदं तु दिव्यं परिहृत्य रूपं न त्वं किमासीर्नरतिर्यगात्मा ॥ १-६५॥


स्वविक्रमाक्रान्तसुरासुरस्य रक्षःपतेर्निग्रहणादरेण ।

भूत्वा सुतः पङ्क्तिरथस्य राज्ञस्तां तामवस्थां न किमन्वभूस्त्वम् ॥ १-६६॥


अनेकधा पालयितारमेवं सम्प्रत्यपि त्वां शरणं प्रपन्नाः ।

सन्तापहारी ननु चातकानां भूयोऽपि भूयोऽपि पयोद एव ॥ १-६७॥


विश्वं विदन्नप्यविदन्निव त्वं नाथानुयुङ्क्षे भयहेतुमस्मान् ।

अनुग्रहस्यैतदपि प्रभूणां प्रायः प्रकारान्तरमाश्रितेषु ॥ १-६८॥


तपोभिरुग्रैर्भगवन् सुराणामवध्यभावं दनुजाः प्रपन्नाः ।

पातालमुर्वीं च विजित्य दर्पादुपक्रमं ते दिवमद्य जेतुम् ॥ १-६९॥


न जातु शून्यः कुलिशेन पाणिर्वक्षो न मुक्तं मणिकङ्कटेन ।

शक्रस्य दैत्यागतिशङ्किनोऽस्य नासज्जितस्तिष्ठति वारणेन्द्रः ॥ १-७०॥


दण्डं यमात्पाशमपामधीशाद्गदां कुबेरात्कुलिशं मघोनः ।

आदातुकामः प्रहिणोति दूतान् कंसः स्वदोर्विक्रमनिर्जिताशः ॥ १-७१॥


रणे विनिर्जित्य बलं सुराणां पराक्रमेणाप्रतिमेन वीरः ।

भोजेश्वरः क्रीडति सावरोधो मूलेषु सम्प्रत्यमरद्रुमाणाम् ॥ १-७२॥


धनुर्धराध्यासितवप्रशीर्षाः द्वाःपालनव्यग्रसमग्रयोधाः ।

प्रवीरनिर्भर्त्सितकान्दिशीका स्थातुं न जानाति पुरी सुराणाम् ॥ १-७३॥


हाहेति विक्रोशदनाथमेतद्विश्वं जगत्पीडयतः प्रकामम् ।

त्वया विनाऽन्यस्त्रिषु विष्टपेषु न कर्तुमीष्टे नरकस्य भङ्गम् ॥ १-७४॥


प्रलम्बकेशिप्रमुखास्तथान्ये परस्सहस्रं परियन्ति दैत्याः ।

निर्घातकल्पैर्निजसिंहनादैर्विदारयन्तो वियदाहवेषु ॥ १-७५॥


षट् सूनवस्सन्ति हिरण्यनाम्नो दैत्यस्य पातालतलाधिवासैः ।

तैर्न्नः क्रियन्ते दुरितानि यानि वक्तुं न शक्यानि मुकुन्द तानि ॥ १-७६॥


तेषां महीध्रप्रतिमाकृतीनां भारं मही सोढुमसावशक्ता ।

अस्मान् पुरस्कृत्य भवत्सकाशं प्राप्ता निजक्लेशनिवेदनाय ॥ १-७७॥


तदेतदावेदनमस्मदीयं श्रुत्वा प्रमाणं प्रभुरित्युदीर्य ।

विधिर्व्यरंसीद्विहितप्रणामः स चापि गम्भीरमुवाच देवः ॥ १-७८॥


अलं विषादेन दिवौकसो वः समीहितं हस्तगतं मनुध्वम् ।

व्रतं हि मे केवलमेतदेव संरक्षणं यच्छरणागतानाम् ॥ १-७९॥


मामर्थयन्ते वसुदेवपत्न्यौ पत्नी च नन्दस्य सुतं गुणाढ्यम् ।

अंशद्वयेन व्रतकर्शिताङ्गीस्तिस्रोऽपि ताः पुत्रवतीर्विधास्ये ॥ १-८०॥


इयं च लोकत्रितयस्य माता मायाभिधाना मम शक्तिरग्र्या ।

कार्याणि वः कान्यपि कर्तुकामा जनिष्यते जन्मविनाशशून्या ॥ १-८१॥


तद्गच्छत स्वर्गमपेतखेदाः न कालहानिः परिशङ्कनीया ।

अनेन शार्ङ्गेण शपे शरैर्वः सद्यो मनःशल्यमपाकरिष्ये ॥ १-८२॥


इति तममरलोकं सान्त्वयित्वा स देवः

सपदि नवघनाभः पद्मनाभस्तिरोऽभूत् ।

स च विहितनमस्यस्तस्य वाचं प्रशंसन्

निजपदमभिपेदे हर्षपर्याकुलात्मा ॥ १-८३॥


इति सुकुमारकृतौ कृष्णविलासकाव्ये प्रथमस्सर्गः ॥ १ ॥




    द्वितीयः सर्गः


अथैकदा पुत्रफलानि सम्यग्व्रतानि बाह्योपवने चरन्तीम् ।

रथेन कंसो वसुदेवयुक्तः स्वसारमालोकयितुं जगाम ॥ २-०१॥


स्फुरत्प्रभापल्लविताङ्गयष्टीं कथञ्चिदूढस्तनमञ्जरीकाम् ।

तत्रालकैः षट्/पदिनीमजानात् स तां लतामध्यगतां चिरेण ॥ २-०२॥


सा सन्नताङ्गी नियमावसाने ज्येष्ठाय तस्मै विदधे नमस्याम् ।

स चाशिषा तामनुगृह्य साध्वीं भोजेश्वरो वाक्यमिदं बभाषे ॥ २-०३॥


अद्यापि बालासि सुताननेकान् प्रसोष्यसे किं व्रतयातनाभिः ।

पश्याधुना पल्लवसूतिकाले किं कल्पते चूतलता फलाय ॥ २-०४॥


कृशासि कामं विरम प्रयासान्मनोभिरामानुपभुङ्क्ष्व भोगान् ।

अङ्गानि ते सन्नतगात्रि दुःखं मृणालकल्पानि कथं सहेरन् ॥ २-०५॥


तामेवमुक्त्वा स तु साभ्यनुज्ञां रथं समारोप्य सहैव पत्या ।

प्रयातुकामः पुरमन्तरिक्षे शुश्राव वाचं शतधारकल्पाम् ॥ २-०६॥


त्वदन्तिकस्था सहजाशमीयं प्रसोष्यते पुत्रमयं कृशानुम् ।

मरुत्समिद्धस्स तु दुर्निवारस्त्वां भस्मसात् कंस करिष्यतीति ॥ २-०७॥


निशम्य तद्भूतवचो निकामं कंसस्स रोषागमदुर्निरीक्ष्यः ।

कृपां परित्यज्य कृपाणपाणिः स्वसुर्वधाय स्वयमुद्यतोऽभूत् ॥ २-०८॥


नृशंसकृत्ये नितरां प्रवृत्तमुदग्रकोपस्फुरिताधरोष्ठम् ।

प्रसादयन्नानकदुन्दुभिस्तमुवाच धीमानुपपत्तियुक्तम् ॥ २-०९॥


अलं तवानेन वधोद्यमेन त्वया विधेयो नृपते विमर्शः ।

किमेष नाश्रावि विचारशून्यं व्रजन्त्यनर्था इति साधुवादः ॥ २-१०॥


भयेन युद्धेषु पुरन्दरादीन् सुरान् पराचस्त्रपया विमुञ्चन् ।

महीश्वर स्त्रीवधपातकेऽस्मिन् कथं तवोपक्रमते कृपाणः ॥ २-११॥


अनेन किं वा तव जीवितेन यद्रक्षणं स्यात् सहजावधेन ।

गुणेन केनापि हि लब्धनाम्नामपि स्वनाशादयशो गरीयः ॥ २-१२॥


प्रपद्यमानस्य सदाभिवृद्धिं दिवानिशं प्रीणयतश्च लोकान् ।

भवद्यशश्चन्द्रमसोऽस्य माभून्नवः कलङ्को भगिनीवधेन ॥ २-१३॥


स्वसुर्वधेनास्य भवेदकीर्तिस्तेन त्यजेयुस्सुहृदोऽपि भीताः ।

इत्येव नूनं भुजनिर्जितैस्तैस्सुरैः प्रयुक्तस्सुमहानुपायः ॥ २-१४॥


कालेन तद्द्रक्ष्यसि यन्मदुक्तं मा भूत्तवास्मिन् विषयेऽपि शङ्का ।

तथापि चेतस्तव शङ्कते चेदाकर्ण्यतां तर्ह्यपरः प्रकारः ॥ २-१५॥


सर्वाण्यपत्यानि वशे तवाहं जातानि जातानि समर्पयिष्ये ।

तन्निग्रहं वा तदनुग्रहं वा विचिन्त्य कर्तासि दशानुरूपम् ॥ २-१६॥


किं बुद्धिमान्द्येन निजेन तस्य किं भागधेयेन वराङ्गनायाः ।

बलेन किं वा भवितव्यतायास्तथेति जग्राह वचस्तदीयम् ॥ २-१७॥


वधप्रवृत्तो वसुदेवमन्त्रप्रभावसंस्तम्भितघोरकर्मा ।

निवृत्य निस्त्रिंशमहाभुजङ्गो महीभृतः कोशबिलं विवेश ॥ २-१८॥


सत्या नु सा स्यादशरीरिणी वाक् सत्यं किमेतद्वसुदेववाक्यम् ।

वितर्कयन्नेवमुदस्तकेतुं पुरीं प्रपेदे मणितोरणाढ्याम् ॥ २-१९॥


आलोकनैर्मौलिषु भूपतीनामासज्जयन्नञ्जलिबन्धनानि ।

स वैमनस्येन मुखस्थितेन भयावहः स्वं भवनं जगाम ॥ २-२०॥


विशङ्कमानः स गृहोपकण्ठे तौ सद्मनि क्वापि विधाय गुप्तौ ।

पराक्रमाक्रान्तसमस्तलोकः पुरेव भोगानयमन्वभुङ्क्त ॥ २-२१॥


माया हरेस्साऽथ हिरण्यपुत्रान् यान् देवकीगर्भगतानकार्षीत् ।

भोजेश्वरस्सत्वरमेत्य भीत्या तान् जातमात्रानवधीत् क्रमेण ॥ २-२२॥


जगद्विभूत्यै परमस्य पुंसः यो देवकीगर्भमविक्षदंशः ।

आकृष्य तस्मान्मुरवैरिमाया तं रोहिणीगर्भगतं चकार ॥ २-२३॥


चकास सप्तच्छदपाण्डुरेण सुतेन सा गर्भतिरोहितेन ।

वलाहकान्तर्हितशीतभानोर्दिशो दशां वृत्रजितः प्रपन्ना ॥ २-२४॥


ततस्समाह्लादनमीक्षणानामसूत पुत्रं शरदिन्दुकल्पम् ।

प्रकर्षमापन्नुदयेन यस्य सद्यः समुद्रा इव सत्ववन्तः ॥ २-२५॥


पत्युस्समादिष्टमिदं विधाय शेषं चिकीर्षुस्सुरकार्यमार्या ।

चराचराणां जगतां सवित्री सा श्रद्दधे जन्मभुवं यशोदाम् ॥ २-२६॥


अथ प्रजानामभिवृद्धिकामो देवो दयायाः किल जन्मभूमिः ।

स्वजन्मने जन्मविनाशहेतुः प्राप्यस्सतां प्राप स देवकीं ताम् ॥ २-२७॥


कृशावलग्ना कुचयोर्गरिम्णा सा देवकी सन्नतगात्रयष्टिः ।

जगत्त्रयीपुण्यकृतावलम्बा बभार गर्भेण जगन्निवासम् ॥ २-२८॥


अन्तर्दधाना सरसीरुहाक्षं स्वेनावतारेण भुवं पुनाना ।

सा देवकी सा च कवेरकन्या मिथोऽदधातामुपमानभावम् ॥ २-२९॥


अलं निवासाय न यस्य विश्वं वसन् स गर्भे मुमुदे मुकुन्दः ।

परोपकारप्रभवं हि दुःखं पुंसस्सुखायैव महत्तरस्य ॥ २-३०॥


बहिःस्फुरन्त्या करपाञ्चजन्यत्विषेव विष्णोरुदरस्थितस्य ।

अधत्त तस्यास्तपनीयवर्णा मधूकपुष्पच्छविमङ्गयष्टिः ॥ २-३१॥


बभार हारं कुचयोर्न तन्वी न पादयोर्नूपुरमामुमोच ।

दधौ मणिं भारभिया न मौलौ तदेव कैवल्यमभूषयत्ताम् ॥ २-३२॥


दृशः प्रयत्नेन दधौ तिरश्चीरुवाच मन्दं निभृतं जहास ।

शनैर्ययौ दत्तकरा सखीभिर्भृशं निशश्वास च तावदेव ॥ २-३३॥


सहैव हर्षेण सुधाशनानां सहैव पुण्येन वसुन्धरायाः ।

भयेन भोजाधिपतेश्च देवो सहैव गर्भे ववृधे मुकुन्दः ॥ २-३४॥


शिरोभिरूढेन वनस्पतीनां फलोपहारेण निवेदितर्द्धिः ।

प्रावृट् समासादितसूतिकालां तां देवकीं द्रष्टुमिवाजगाम ॥ २-३५॥


अथैकदेशा इव वारिराशेरुच्चैः पुरोमारुतविप्रकीर्णाः ।

वृतास्तडिद्विद्रुमवल्लरीभिर्विरेजिरे व्योमनि वारिवाहाः ॥ २-३६॥


बलाहकव्रातभवैस्तमोभिर्दिनेषु दुर्बोधपुरःस्थितेषु ।

न कश्चिदासीदभिसारिकाणां विद्युत्प्रकाशेन विनाऽन्तरायः ॥ २-३७॥


पयोदभस्त्रान्तरनिर्गतेन झात्कारिणा चण्डसमीरणेन ।

वियोगिनां चेतसि मेघकालः सन्धुक्षयामास मनोभवाग्निम् ॥ २-३८॥


स्मरेण लोकत्रितयेश्वरेण सम्भाविताज्जीवितनिर्विशेषम् ।

ऋतोर्वसन्ताज्ज्वलदागमस्य जहार जातिर्निखिलं निकर्षम् ॥ २-३९॥


बलाद्गृहीता इव वैतसीभिः शाखाभिरारूढमदा इवोच्चैः ।

परिस्खलन्त्यो निखिलास्तटिन्यः जग्मुर्जवादुद्भटफेनहासाः ॥ २-४०॥


उदारसौरभ्यवशीकृतानामन्वीयमानः पटलैरलीनाम् ।

अकल्पयत् केतकमातरिश्वा मनोभवस्यापि मनोविकारम् ॥ २-४१॥


अत्यम्बुपानप्रभवस्य कर्तुमन्तर्जडिम्नः प्रतिसंविधानम् ।

पपुस्तिरस्कारपदेन मेघाः मयूखमालामरविन्दबन्धोः ॥ २-४२॥


रराज खर्जूरफलप्रकाशं नवं पयः काननपल्वलेषु ।

पयोदवृन्दैः परिपीय मुक्तं प्रभाकरस्येव मरीचिजालम् ॥ २-४३॥


महीभृतां मूर्द्धसु दत्तपादं विलोक्य मित्रं विहतप्रतापम् ।

मग्ने जले मर्तुमिवारविन्दे मधुव्रताश्चुक्रुशुरन्तरिक्षे ॥ २-४४॥


निषेव्य हंसा मधुरैर्वचोभिः पद्माकरं लब्धसमीहितार्थाः ।

सद्यो ययुस्तस्य विपत्तिकाले जलाशयानां प्रकृतिः किलैषा ॥ २-४५॥


प्ररूढसस्याः फलमूलशाकैर्निरन्तराः स्वादुनवोदकाढ्याः ।

पल्लीजुषां चेतसि पामराणां धृतिं परामादधिरे वनान्ताः ॥ २-४६॥


समुन्मिषन्ती गिरिमल्लिकानां प्रसूनराजिस्सुतरां विरेजे ।

मुक्त्वा नभो मेघविमर्दभीत्या नक्षत्रमालेव गता धरित्रीम् ॥ २-४७॥


धारालजीमूतकृतान्धकारे तस्मिन्नपर्यन्तजडिम्नि काले ।

अलक्ष्यमाणः क्वचिदंशुमाली दिवाऽप्युवासेव तनूनपाति ॥ २-४८॥


इति प्रवृत्ते समये घनानां मासे नभस्ये निशि मध्यमायाम् ।

गणे शुभाख्यायिनि च ग्रहाणां देवक्युवाह प्रसवाभिमुख्यम् ॥ २-४९॥


हरत्सु बाह्यं भुवनस्य तापं प्रावृट् प्रसूतेषु वलाहकेषु ।

असूत तस्यान्तरतापशान्त्यै कृष्णाम्बुवाहं कृपयेव देवी ॥ २-५०॥


दिशः प्रसेदुः सह निम्नगाभिर्जहर्ष लोकेन सहाम्बुराशिः ।

जाते मुकुन्दे मुमुचुश्च सद्यः भयेन देवाः सह पुष्पवृष्टिम् ॥ २-५१॥


मनोभिरामेण मधुव्रतानां नादेन शंसन्निव दिष्टवृद्धिम् ।

चचार वायुः सुमनोंऽशुकानि सम्प्राप्य सम्प्राप्य महीरुहेभ्यः ॥ २-५२॥


व्यजृम्भत प्रस्फुटशङ्खनादः तारेण गीतध्वनिना विमिश्रः ।

समश्नुवानः ककुभां मुखानि दिवौकसां मङ्गलतूर्यघोषः ॥ २-५३॥


त्रपामपास्यन् विनयं विलुम्पन् नीतिं निगृह्णन् भयमाशु भञ्जन् ।

शरीरिणामच्युतजन्मजन्मा मोदो जजृम्भे मदनिर्विशेषः ॥ २-५४॥


आषाढिनं पाणिमुदस्य दूरं ब्रह्मर्षिलोकः पतदुत्तरीयः ।

ननर्त पर्याकुलपादचारः प्रहस्यमानः सुरसुन्दरीभिः ॥ २-५५॥


श‍ृङ्गोज्झितैः कुङ्कुमवारिपूरैरन्योन्यमभ्युक्षणतत्पराणाम् ।

प्रमोदजन्मा दिवि सम्बभूव कोलाहलः कोऽपि सुधाशनानाम् ॥ २-५६॥


पितॄंश्च पुत्रा पितरश्च पुत्रान् गुरूंश्च शिष्या गुरवश्च शिष्यान् ।

पतींश्च दाराः पतयश्च दारान् प्रमोदमत्तास्सिषिचुः पयोभिः ॥ २-५७॥


असिञ्चदम्भोरुहयोनिरिन्द्रं तं पङ्कजावासमसिञ्चदिन्द्रः ।

असिञ्चतां द्वौ विबुधानशेषान् सर्वे सुरास्तौ च बलादसिञ्चन् ॥ २-५८॥


मिथः पयोभिः सिषिचुर्विनेदुः ववल्गुरुच्चिक्षिपुरम्बराणि ।

अन्योन्यमंसेन सुदूरमूहुर्मत्ता इव स्वर्गसदो बभूवुः ॥ २-५९॥


त्रिलोकनाथोदयसम्भवेन मोदेन पर्याकुलमानसानाम् ।

गीते च नृत्ते च सुराङ्गनानां बभूव तालस्खलितं न दोषः ॥ २-६०॥


श‍ृङ्गोदकास्फालनरक्तनेत्राः विच्छिन्नहाराश्च्युतकर्णभूषाः ।

प्रहाससीदध्वनिभिर्वचोभिः समालपन्तो विबुधा विजह्रुः ॥ २-६१॥


जाते हरौ दैत्यविमर्दनेन विश्वम्भराभारमपाचिकीर्षौ ।

मुनेः प्रहर्षः कलहप्रियस्य जगत्प्रहर्षश्च समावभूताम् ॥ २-६२॥


इति प्रहर्षाकुलितैर्मनोभिः विश‍ृङ्खलं क्रीडति देहिवर्गे ।

कंसस्सभृत्यः प्रतिपद्य मूर्छां निद्राभिधानां न किमप्यबोधि ॥ २-६३॥


श्यामं चतुर्बाहुमुदारहारं किरीटिनं कुण्डलदीप्तगण्डम् ।

पिताऽपि माता च विलोक्य पुत्रमानन्दमग्नौ विवशावभूताम् ॥ २-६४॥


नियम्य हर्षोदयपारवश्यं तं देवकीजानिरुवाच वाचम् ।

प्रसीद भीतोऽहमतीव कंसादिदं तु रूपं प्रतिसंहरेति ॥ २-६५॥


तत्प्रेरितस्तल्पगतं कराभ्यां तमाददे कल्पितबालभावम् ।

तयोश्शयानः करयोस्स तस्य प्रकाममप्रीयत पद्मनाभः ॥ २-६६॥


अशेत यः प्राग्वटपत्रमध्ये लोकानशेषानुदरे दधानः ।

विना तपोभिः किमु तस्य सिध्येत्तत्पाणियुग्मे शयनं मुरारेः ॥ २-६७॥


तमालनिलेन तमोभरेण निपीडिताशावलये निशीथे ।

आदाय पङ्केरुहलोचनं तं सद्यः स निर्गत्य गृहात् प्रतस्थे ॥ २-६८॥


निवार्य वर्षोदकमात्मनैव प्रकाश्य मार्गं फणरत्नभासा ।

उपायमुक्त्वा वसुदेवकर्णे शेषस्सिषेवे बहुधैव विष्णुम् ॥ २-६९॥


पुरात् स निर्गत्य पुमांसमाद्यं वहन् वहन्तीं यमुनामपश्यत् ।

कूलङ्कषौघाऽपि कलिन्दकन्या तदीयगुल्फद्वयसोदकाऽभूत् ॥ २-७०॥


उत्तीर्य तां तत्तटसंश्रितानां दातुं करं वार्षिकमागतानाम् ।

व्रजौकसां नन्दपुरोगमानां प्रीतो निवेशं सहसा विवेश ॥ २-७१॥


प्रविश्य जानन्निव नन्दगोपनिवेशनं सुप्तशरीरिवर्गम् ।

सुतां प्रसूय प्रतिपन्ननिद्रां ददर्श तद्धर्मवधूं यशोदाम् ॥ २-७२॥


तं शाययित्वा शयने तदीये कन्यां समादाय निपत्य गच्छन् ।

शुश्राव पुत्रोदयहर्षमूलं कोलाहलं गोपवधूजनानाम् ॥ २-७३॥


करेण कन्यां मनसा च पुत्रं वहन् मुहूर्तेन विलङ्घ्य मार्गम् ।

विशङ्कमाविश्य गृहं गृहिण्याः निधाय बालां शयने स तस्थौ ॥ २-७४॥


सा चञ्चरीकस्वनसन्निभेन नादेन लोकस्य मनो हरन्ती ।

रुरोद किञ्चिद्विवृतेन बाला स्फुटत्पयोजाकृतिना मुखेन ॥ २-७५॥


आकर्ण्य बालध्वनिमस्तनिद्राः प्रधाव्य रक्षापुरुषा जवेन ।

प्रबोध्य यत्नेन पतिं पृथिव्याः शशंसुरस्मै भगिनीं प्रसूताम् ॥ २-७६॥


सद्यः समागत्य स तत्र दृष्ट्वा बालाममर्षेण विमर्शशून्यः ।

स्वस्रा निषिद्धोऽपि वधाभिलाषी जग्राह तस्याश्चरणौ कराभ्याम् ॥ २-७७॥


उदस्य दूरं तरसा करेण चिक्षेप तां दुर्मतिरश्मपृष्ठे ।

महीमयातैव दिवि स्थिता सा जज्वाल धाम्ना जगतां सवित्री ॥ २-७८॥


ततः करैस्तामरसप्रकाशैः सा मन्दमान्दोलितशस्त्रजाला ।

विलोक्य तं विह्वलचित्तवृत्तिं जगाद वाचं जगदेकमाता ॥ २-७९॥


त्वमग्रहीर्मच्चरणौ रुषाऽपि प्रायः फलं तस्य न हन्मि यत्त्वाम् ।

जातः पृथिव्यां तव जाल्म हन्ता सद्यो हितं चिन्तय साधयामि ॥ २-८०॥


इति नृपमभिधाय ज्योतिषा कुर्वती सा तडिदिव नयनानि प्राणिनामाकुलानि ।

सुरयुवतिभिरुच्चैर्गीयमानापदाना सुरपदमभिपेदे पाटिताभ्रा जवेन ॥ २-८१॥


श्रुत्वा तस्या श्रवणपरुषां वाचमन्तर्विषण्णः

पुत्रापायव्यथितमनसं सान्त्वयित्वा स्वसारम् ।

पद्भ्यामेव स्वभवनमथ प्राप्य कृच्छ्रादनैषीत्

कंसश्चिन्ताकुलितहृदयो जाग्रदेव त्रियामाम् ॥ २-८२॥


इति सुकुमारकृतौ कृष्णविलासकाव्ये द्वितीयास्सर्गः ॥ २ ॥




    तृतीयः सर्गः


प्रातः प्रलम्बप्रमुखानमात्यान् सर्वान् समाहूय स भोजराजः ।

सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णानवदद्विनीतः ॥ ३-०१॥


सन्दिह्य मोहाद्वसुदेववाक्यं मया प्रमाणीकृतभूतवाचा ।

हता नृशंसेन सुता भगिन्यास्तेनाविलं मे हृदयं यशोऽपि ॥ ३-०२॥


जातां पुनः काञ्चनकाञ्चनाभां सुतां गतायुर्न्निशि हन्तुमैच्छम् ।

उत्प्लुत्य सा व्योम्नि जवादतिष्ठत् शस्त्रोत्कटा दर्शितदिव्यरूपा ॥ ३-०३॥


नियम्य सा मातुल इत्यमर्षं प्रसेदुषी मामवदच्च बाला ।

अरिर्महीयानजनिष्ट भूमौ तवोचितं सम्प्रति चिन्तयेति ॥ ३-०४॥


व्याहृत्य मां द्यां प्रति देवनारीगणैर्गतायामिति सेवितायाम् ।

देव्यामहं दुश्चरितं स्वमेव स्मरन् विनिद्रो रजनीमनैषम् ॥ ३-०५॥


युद्धेषु देवा पुरुहूतमुख्याः भग्ना मया स्थातुमशक्नुवन्तः ।

अश्वान् परित्यज्य विमुच्य नागान् मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥ ३-०६॥


तदेषु नैकोऽपि भुवं गतो मे शक्नोति कर्तुं प्रतिकूलभावम् ।

महीयसः किं घटते परागः समीरणस्याभिमुखं प्रसक्तुम् ॥ ३-०७॥


किमन्यदार्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः ।

अजायतोर्व्यामसुरान्निहन्तुं स एव मन्ये सरसीरुहाक्षः ॥ ३-०८॥


सर्वे वयं दैत्यकुलप्रसूताः केनापि जाता भुवि कारणेन ।

स तेन सन्नह्यति जेतुमस्मानुक्तोऽयमर्थः किल नारदेन ॥ ३-०९॥


अतस्तदुच्छेदविधौ विनिद्राः यतध्वमद्यैव बलानुरूपम् ।

नखाग्रलाव्यस्तरुरङ्कुरात्मा परश्वधस्यापि ततोऽतिभूमिः ॥ ३-१०॥


यस्मिन् भवत्याश्रितवत्सलत्वं विप्रेषु यस्यास्ति विशेषसङ्गः ।

मनोहरं यश्च बिभर्ति रूपं वधं स बालोऽर्हति मत्सकाशात् ॥ ३-११॥


मखाश्च तत्प्रीतिकृतो निवार्याः निवारणीया श्रुतिरग्रिमाऽपि ।

तृणीकृताशेषजनप्रभावा संस्थौति या तन्महिमानमेव ॥ ३-१२॥


गते विरामं गरुडध्वजेऽस्मिन् मखेषु सर्वत्र निवारितेषु ।

सुरेषु सर्वेष्वपि दुर्बलेषु हस्ते भविष्यत्यमरावती नः ॥ ३-१३॥


इत्यूचुषस्तस्य पदोपकण्ठं नीराजयन्तो मकुटप्रभाभिः ।

अवादिषुर्विक्रमदर्पितास्ते कृताट्टहासध्वनिकम्पिताशाः ॥ ३-१४॥


किं चिन्तया पार्थिव भुङ्क्ष्व भोगानस्मासु जीवत्सु कुतो रिपुस्ते ।

कथं मयूखेषु परिस्फुरत्सु सरोजबन्धोस्तमसाभिभूतिः ॥ ३-१५॥


अमातरिश्वानमहव्यवाहं असूर्यशीतांशुमवज्रपाणिम् ।

अनच्युतेशानपितामहं च द्रष्टासि राजन्नचिरेण लोकम् ॥ ३-१६॥


इत्यूचुषस्तानुचितोपहारैः सम्भाव्य कृत्येषु समादिदेश ।

स देवकीमानकदुन्दुभिं च विमोचयामास च बन्धनस्थौ ॥ ३-१७॥


लब्ध्वा निधानं न तथा दरिद्रो गतिं समासाद्य तथा न पङ्गुः ।

तथा न चान्धो दृशमाप्य हृष्येद्यथाप्तपुत्रः स जहर्ष नन्दः ॥ ३-१८॥


तपने चरमाचलं प्रपन्ने तमसा च स्थगितेषु दिङ्मुखेषु ।

यमुनातटवासिनं तमूचे वसुदेवः प्रतिपद्य नन्दगोपम् ॥ ३-१९॥


तपसा तव नन्दगोप मन्ये फलितं जन्मसहस्रसञ्चितेन ।

ऋणमन्त्यमपोहितुं त्वदीयं यदयं पुत्रनिधिः समाविरासीत् ॥ ३-२०॥


इह खेलति पूतनेति कृत्या शिशुहत्यानिरता पुरोपकण्ठे ।

तदहर्न्निशमत्र रक्षणीयो नयनानन्दकरः सुतस्त्वयाऽयम् ॥ ३-२१॥


अथवा किमिवास्यते त्वयास्मिन्निजमुत्सृज्य पदं पुरोपकण्ठे ।

सविधे न वसन्ति बुद्धिमन्तो फणिनो वायुसखस्य भूपतेश्च ॥ ३-२२॥


प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणमुज्ज्वलप्रदीपम् ।

व्रज गोकुलमाकुलं प्रजाभीभवदीयागमनप्रहर्षिणीभिः ॥ ३-२३॥


शिशुरस्ति ममापि रौहिणेयो भवदीये विषये विवर्धमानः ।

स च साधु निरीक्ष्य रक्षितव्यो वपुषा केवलमावयोर्हि भेदः ॥ ३-२४॥


इत्युक्त्वा गतवति देवकीसहाये संत्रस्तः कथमपि नीतरात्रिशेषः ।

आरोहत्युदयमहीधरस्य श‍ृङ्गं तिग्मांशौ निजवसतिं प्रति प्रतस्थे ॥ ३-२५॥


सचकितमृगमण्डलानि कुर्वन् शकटशतध्वनिभिर्वनान्तराणि ।

प्रमुदितमथ गोकुलं प्रपेदे दिशि दिशि मारुतधूतकेतुमालम् ॥ ३-२६॥


निजवसतिमभिप्रपद्य तुष्टः किमपि न कर्म करोति नन्दगोपः ।

नवनलिनपलाशचारुनेत्रं वदनमहर्न्निशमात्मजस्य पश्यन् ॥ ३-२७॥


मुग्धभावमधुरेण रञ्जयन् शैशवेन हृदयं व्रजौकसाम् ।

गोकुले स विजहार केशवः क्षीरवारिनिधिमप्यचिन्तयन् ॥ ३-२८॥


वदनं मधुसूदनः कराभ्यां चरणाङ्गुष्ठमुपानयत् पिपासुः ।

गलितेव ततस्सुरस्रवन्ती नख-मुक्ता-मणि-दीधितिच्छलेन ॥ ३-२९॥ Thaakiya Thiruvadi


अमृतांशुरिवापरः प्रमोदं नयनानां जनयन् स पद्मनाभः ।

भवनं भवनात् करौ कराभ्यां व्रजयोषिद्भिरनीयताङ्कमङ्कात् ॥ ३-३०॥


अधः कदाचिच्छकटस्य शायितः स्वकार्यपर्याकुलया यशोदया ।

स लीलया पादसरोरुहं शनैरुदञ्चयामास सरोजलोचनः ॥ ३-३१॥


मधुभिदश्चरणाम्बुजताडितं शकटमाशु समुत्थितमम्बरे ।

विपरिवृत्य पपात महीतले पटुतरध्वनिपूरितदिङ्मुखम् ॥ ३-३२॥


शकटपतनजन्म नन्दमुख्याः स्तनितमिव ध्वनितं निशम्य गोपाः ।

किमिदमिति भयेन तत्र जग्मुस्त्वरितगतिच्यवमानकेशबन्धाः ॥ ३-३३॥


कुचकलशविलग्नपाणिपद्मा विगलितबन्धमनोज्ञकेशपाशा ।

सपदि सह सखीभिरन्वधावत् कलमणिनूपुरशिञ्जिता यशोदा ॥ ३-३४॥


कृतस्मितं क्वचिदपरिक्षतं सुतं विलोक्य तं प्रमुदितमानसा परम् ।

व्रजौकसां सविधनिवासिनां मुखाद्विसिस्मिये विदिततदीयविक्रमा ॥ ३-३५॥


स्रुतशोणितमेव मन्यमाना चरणं तस्य निसर्गपाटलं तत् ।

उदमार्जयदंशुकाञ्चलेन द्रुतमागत्य पुनः पुनर्यशोदा ॥ ३-३६॥


तिलकं मधुविद्विषो ललाटे रजसा गोमयजन्मना विधाय ।

उरसा परिरभ्य नन्दगोपः सुचिरं तस्य सुमङ्गलानि दध्यौ ॥ ३-३७॥


शकटं मधुसूदनस्य दृष्ट्वा चरणोदञ्चनविभ्रमेण भग्नम् ।

अथ वारिनिधेर्विवेश गर्भं स्वरथस्यापि विशङ्क्य भङ्गमर्कः ॥ ३-३८॥


परितःस्फुरता नवेन सन्ध्यामहसा पल्लवपाटलेन लिप्ताः ।

पतिता इव पावके विरेजुः ककुभो दुस्सहभानुविप्रयोगात् ॥ ३-३९॥


क्षुभितश्चिरमम्बराम्बुराशिः तपनस्यन्दनवाहनावगाहात् ।

स्फुरदुद्भटतारकापदेशात् सहसाऽऽकीर्यत फेनमण्डलेन ॥ ३-४०॥


अहिमरुचि रसातलं प्रविष्टे भयचकितः स्वविनाशमाकलय्य ।

तत इव तरसोत्पतन्नसीमा तिमिरभरः पृथिवीतलं प्रपेदे ॥ ३-४१॥


भूरन्तरिक्षं भवनानि रथ्याः वनानि शैलास्सरितस्समुद्राः ।

ध्वान्ते दिशां रुन्धति चक्रवालं व्यक्तं न केनापि किमप्यवेदि ॥ ३-४२॥


अथ प्रयाति प्रहरे यशोदा जने च किञ्चिन्निभृते सनिद्रे ।

पुत्रं पयःपानगुरुप्रमोदं प्रस्वापयन्ती कलमित्यगायत् ॥ ३-४३॥


कुन्दत्विषस्तालफलप्रकाशाः तापिञ्छवर्णास्तरुणार्कभासाः ।

प्रभूतदुग्धा नवनीतवत्यो गावस्सहस्रं तनय त्वदीयाः ॥ ३-४४॥


प्रियालखर्जूरसमग्रसानुः फलाढ्यरम्भावनशोभनीयः ।

ननूपभोगाय सुतायमास्ते गोवर्धनो नाम महीधरस्ते ॥ ३-४५॥


सरसिरुहवने गतेऽपि निद्रां कथमिव ते नयनाम्बुजे विनिद्रे ।

श्रुतिपरिचयशालिनो हि कर्म स्वजननिषेवितमेव संश्रयन्ते ॥ ३-४६॥


तद्ध्वनिश्रवणजातकौतुका बालजीवितविलोपविश्रुता ।

आजगाम गगनेन पूतना यातना तनुमतीव देहिनाम् ॥ ३-४७॥


साऽवतीर्य नभसो निशाचरी गूढमेव निषसाद कुत्रचित् ।

सा च सुप्त इव वीक्षिते सुते स्वापमाप सरसीरुहेक्षणा ॥ ३-४८॥


कृष्णमङ्कमधिरोप्य निर्दया दातुमारभत पूतना स्तनम् ।

यत्पयोधरमुखे मुखार्पणादायुषा शिशुजनो वियुज्यते ॥ ३-४९॥


पाञ्चजन्यमिव पूतनास्तनं पाणिपल्लवयुगेन पीडयन् ।

आननेन मधुशत्रुरान्तरानाददे स तु ततस्समीरणान् ॥ ३-५०॥


विप्रकीर्णकचबालपल्लवा भग्नबाहुविटपा निशाचरी ।

सा पपात भुवि घोरनिःस्वना मारुताहतमहीरुहोपमा ॥ ३-५१॥


झटिति व्यपनीतगाढनिद्रो महता तेन रवेण पूतनायाः ।

प्रतिपत्तुमियाय तां प्रवृत्तिं सह गोपालगणेन नन्दगोपः ॥ ३-५२॥


तस्याश्शरीरमधिरुह्य विचेतनायाः

क्रीडन्तमम्बुरुहलोचनमीक्षमाणाः ।

तस्थुस्समुन्मिषितविस्मयनिर्विकाराः

नासाधिरोपितकराङ्गुलयो मुहूर्तम् ॥ ३-५३॥


नन्दः प्रमृज्य नयने मुहुरश्रुपूर्णे

पुत्रं कृतान्तमुखनिर्गलितं निदध्यौ ।

दध्यौ च तस्य नितरामभिवृद्धिकामः

तत्त्वं परं स हृदयेन समाहितेन ॥ ३-५४॥


श्यामलः कमलपत्रलोचनो नीलकुन्तलभरः शुचिस्मितः ।

ध्यायतो मनसि तस्य सन्निधिं पुत्र एव विदधे पुनः पुनः ॥ ३-५५॥


न क्षमं भवति पुत्रवासनानिस्तरं हृदयमच्युतस्मृतौ ।

इत्यशेषदुरितापहारिणीरग्रजन्मभिरकारयत् क्रियाः ॥ ३-५६॥


पूतनाचरितभावनाभवं दारुणं हृदयदारणं पितुः ।

श्रीपतिः शमयति स्म वैशसं क्रीडितैरखिललोकमोहनैः ॥ ३-५७॥


स लोचने किञ्चिदुपान्तघूर्णिते निधाय मातुर्वदने शुचिस्मितः ।

पयोधरं पाणियुगावलम्बितं मनश्च तस्या मधुसूदनः पपौ ॥ ३-५८॥


पाणिजानुपरिचङ्क्रमश्रमस्वेदबिन्दुमधुरं मुखं वहन् ।

धूसरेण वपुषा जनार्दनो गोकुलं निखिलमन्वरञ्जयत् ॥ ३-५९॥


परिभ्रमन्तं भुवि पाणिजानुना गवामधस्तात्प्रविशन्तमेकदा ।

सुतं यशोदा गृहकृत्यतत्परा बबन्ध पाशेन बलादुलूखले ॥ ३-६०॥


जनो हि यः कर्म करोति यादृशं स सर्वथा तादृशमश्नुते फलम् ।

बलिः पुराऽबध्यत येन दानवः स लोकनाथोऽपि तदाप बन्धनम् ॥ ३-६१॥


निखिलभुवनमुक्तिदे मुरारौ भगवति गाढमुलूखले निबद्धे ।

परिशिथिलसमाधिराविरासीन्मनसि महामुनिमण्डलस्य हासः ॥ ३-६२॥


निषीद लोलेति निबध्य सस्मितं चकार कार्याणि चकोरलोचना ।

अनादरेण भ्रमयन्नुलूखलं विनिर्ययौ विश्वपतिः स्वमन्दिरात् ॥ ३-६३॥


उपेयिवांसौ ककुभद्रुमात्मतां महीयसा नारदशापतेजसा ।

अतिष्ठतामध्वनि कैटभद्विषः कुबेरपुत्रौ तरसैव रिङ्खतः ॥ ३-६४॥


स सन्निकृष्य स्थितयोः परस्परं महीरुहोर्मध्यपथेन निस्सरन् ।

गतेन तिर्यक्त्वमुलूखलेन तौ बभञ्ज दामोदरगन्धवारणः ॥ ३-६५॥


प्रपद्य दिव्यं वपुरम्बरस्थितौ विमुक्तशापौ धनदात्मजावुभौ ।

प्रणम्य भक्त्या पुरुषं पुरातनं मुदान्वितौ जग्मतुरन्तिकं पितुः ॥ ३-६६॥


नन्दादयः सपदि गोकुलवासिनस्ते

तद्भङ्गजन्म सुमहद्ध्वनितं निशम्य ।

अभ्येत्य भग्नपतितौ ककुभद्रुमौ तौ

तत्राक्षतं च ददृशुस्सरसीरुहाक्षम् ॥ ३-६७॥


नन्दः समीक्ष्य दुरितानि बहूनि सद्भ्यः

दत्वा गवामयुतमात्मसुताभिवृद्ध्यै ।

सम्मन्त्र्य बन्धुभिरपास्य पदं तदाशु

वृन्दावनं प्रति ययौ शकटैरसङ्ख्यैः ॥ ३-६८॥


गत्वा स गोकुलपतिर्मनसोऽनुकूले

कूले कलिन्ददुहितुर्निदधे पदानि ।

रेमे च तत्र पुरुहूतपदाभिरामे

लीलायितानि तनयस्य निरीक्ष्यमाणः ॥ ३-६९॥


दधिनिर्मथने निरुद्यमा सा नवनीतश्रपणे गवां च दोहे ।

सुतकेलिहृतेक्षणा यशोदा क्षणकल्पानि निनाय वासराणि ॥ ३-७०॥


अनुयाति जिघृक्षयेव नन्दे तरसा रिङ्खणतत्परस्य विष्णोः ।

ललितालकवेल्लितानि रेजुर्मुखमात्रेण मुहुर्निवर्तितानि ॥ ३-७१॥


अन्तरा विहतिमद्भिरुत्थितैरस्फुटाक्षरपदाभिरुक्तिभिः ।

भङ्गुरैश्च परिरम्भणोद्यमैर्गोकुलं निखिलमन्वरञ्जयत् ॥ ३-७२॥


पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया ।

आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ॥ ३-७३॥


आत्मनः प्रतिकृतिं विलोकयन् मातृहस्तमणिदर्पणोदरे ।

एहि मित्र किमिहेति कौतुकाद्व्याजहार शतपत्रलोचनः ॥ ३-७४॥


गौरवं कथमियं सहेत मे मेदिनीति कृपयेव चिन्तयन् ।

माधवः पतनभीतिमुद्वहन् मन्दमेव निदधे पदावलिम् ॥ ३-७५॥


देवो निशासु हरिरङ्कगतो जनन्याः

श‍ृण्वन् कथा मधुमुचो महताऽऽदरेण ।

मन्दं तदीयकरपल्लवताडितोरुः

सुष्वाप कुड्मलितलोचनपुण्डरीकः ॥ ३-७६॥


कौतुकेन पितुरग्रतो हरेर्धावतस्खलनमीक्षमाणया ।

मोदनिघ्नमनसा सलज्जया न स्थितं न चलितं यशोदया ॥ ३-७७॥


मुखडिण्डिमवादिना परीतो मधुजित् कौतुकिना सुहृद्गणेन ।

अधिरोपितवारणेन्द्रभावो ललिताभिर्गतिभिर्गृहेषु रेमे ॥ ३-७८॥


अथाभिवृद्धिं प्रतिपद्यमानो दध्यादिषु प्रीतिमुवाह शौरिः ।

तत्तत् प्रदानेन वशे विधातुमारेभिरे गोकुलयोषितस्तम् ॥ ३-७९॥


कुरुष्व नृत्तं नवनीतमूल्यं कृष्णेति साभ्यर्थनमूचिषीणाम् ।

व्रजाङ्गनानां स पुरस्सलीलमुदञ्चयामास पदारविन्दम् ॥ ३-८०॥


तासां मनःप्रीतिविधानदक्षे तथा क्षणं तस्थुषि शार्ङ्गपाणौ ।

एकाङ्घ्रिसंस्पर्शवियोगमात्रादधन्यमात्मानममन्यतोर्वी ॥ ३-८१॥


उदञ्चितं तस्य विलोक्य पादं वेधा पुनर्विक्रमशङ्किचेताः ।

कमण्डलुं पाणितलेन गृह्णन्नभ्युद्यतोऽभूदवनेजनाय ॥ ३-८२॥


नृत्तामृतं गोकुलयोषितस्तत् कृष्णस्य नेत्राञ्जलिभिः पिबन्त्यः ।

प्रीतिप्रकर्षस्तिमितैर्मनोभिरालेख्ययोषित्प्रतिमा बभूवुः ॥ ३-८३॥


विदुर्न तद्दर्शनपारवश्याद्दातुं करस्थं नवनीतमेकाः ।

विस्रस्य भूमौ पतितं तदन्याः न मेनिरे पाणिसरोरुहेभ्यः ॥ ३-८४॥


अजस्रमेवं भवनेषु तासां बभ्राम कृष्णो नवनीतभिक्षाम् ।

पुरा किलान्यैरनिवर्तनीया निवर्तिता येन हरस्य भिक्षा ॥ ३-८५॥


धिग्याचनां चौर्यभवस्य भूयानस्त्यंहसो निर्हरणाभ्युपायः ।

मत्वेति नूनं नवनीतचौर्ये मधोर्निहन्ता मतिमाबबन्ध ॥ ३-८६॥


निर्वाप्य दीपं मुखमारुतेन हैयङ्गवीनं निशि हर्तुमिच्छन् ।

कृष्णः कटीभूषणरत्नभासा विहन्यमानो विषसाद भूयः ॥ ३-८७॥


निपीडयन्नग्रपदेन पृथ्वीमुन्नम्य देहं भृशमूर्ध्वबाहुः ।

पयोघटस्पर्शनमश्नुवानस्त्रिविक्रमोऽभूत् परिहासपात्रम् ॥ ३-८८॥


नियमितश्वसितो निभृतैः पदैर्निशि कथञ्चन गर्भगृहं गतः ।

स तु भयादसमाप्तमनोरथो निववृते नवनीतहरो हरिः ॥ ३-८९॥


हर्तुं हरेर्व्यवसितस्य घने निशीथे

भूषारवश्रुतिभयाद्व्रजतोऽतिमन्दम् ।

अन्तर्गृहस्य नवनीतवतः प्रवेशात्

प्रागेव हन्त पथि सा रजनी विभाता ॥ ३-९०॥


गोपीसमागमभिया च तृषा च गुर्व्या

पातुं विहातुमपि गोपगृहेष्वजानन् ।

आद्वारमादधिघटं च गतागतानि

कुर्वन् सरोजनयनः श्रममेव लेभे ॥ ३-९१॥


भित्तिषु प्रतिशरीरदर्शनात् शङ्कितः स नवनीतनिःस्पृहः ।

किञ्चिदन्यदिव तत्र मार्गयन्निर्जगाम मणिमन्दिरोदरात् ॥ ३-९२॥


जिहीर्षुरन्तर्भवनेषु गोरसं दिनान्यनैषीत्तदुपायचिन्तया ।

स जागरूकश्च निनाय यामिनीं मनोहराभिर्हरणप्रवृत्तिभिः ॥ ३-९३॥


दृष्टेऽपि तत्सविधसञ्चरणे स तत्र

वक्तुं निमित्तमुचितं कृतनिश्चयस्सन् ।

अभ्यर्ण एव निदधे दधिभाजनस्य

लीलायितोपकरणानि निजानि शौरिः ॥ ३-९४॥


वहन् गृहीतो नवनीतमच्युतो भयेन पारिप्लवनेत्रपङ्कजः ।

पदा लिखन् भूमिमवाङ्मुखस्थितो जहार चेतोऽपि च गोपयोषिताम् ॥ ३-९५॥


शपे पितृभ्यामित ऊर्ध्वमेवं नाहं विधास्ये नवनीतचौर्यम् ।

विनिःश्वसन्नित्यभिधाय कृष्णो जहार मातुश्च पितुश्च चेतः ॥ ३-९६॥


एहि सद्म तनयेति सादरं याचितोऽपि स मुहुर्यशोदया ।

आननेन नवनीतगन्घिना नाजगाम विहरन्निवाच्युतः ॥ ३-९७॥


हृतं नवं मे नवनीतमालयात् हृतं घृतं मे दधि मे हृतं निशि ।

इति प्रभाते वचनानि योषितामुवाह श‍ृण्वन् न मुखे स विक्रियाम् ॥ ३-९८॥


पुत्रं कुलस्य भुवनस्य च रक्षितार-

मभ्यर्थितोऽपि भगवानरविन्दनाभः ।

त्वां मे ददौ विधिवशाद्भुवनैकचोर-

मित्याह कोपमभिनीय सुतं यशोदा ॥ ३-९९॥


स सान्त्वनेन प्रतिपादनेन भेदेन तीव्रेण च तर्जनेन

निबद्ध्य पृष्टोऽपि मुहुर्जनन्या नाङ्गीकरोति स्म हरिः स्वचौर्यम् ॥ ३-१००॥


संरक्षणाय जगतामवतीर्य पृथ्व्यां

गोपालसद्मसु हरत्यखिलं मुकुन्दः ।

इत्थं निशम्य परिहासवचस्सुराणाम्-

अन्तर्जहास भगवानरविन्दनाभः ॥ ३-१०१॥


कृष्णस्य केलिसमरेक्षणकौतुकेन

गोपीषु मुक्तभवनासु बहिः स्थितासु ।

मित्रैः पराजित इव द्रुतमेत्य गेहं

बद्ध्वा कवाटमहरन्नवनीतमन्तः ॥ ३-१०२॥


त्रिभुवनमहनीयैरभ्युपायैरसङ्ख्यैः

निखिलमिति स मुष्णन् गोकुलं नन्दसूनुः ।

अरमत सवयोभिस्तत्र गोपालपुत्रै-

रपर इव शशाङ्कः प्राणिनां प्रीतिहेतुः ॥ ३-१०३॥


इति सुकुमारकृतौ कृष्णविलासकाव्ये तृतीयः सर्गः ॥ ३ ॥




    चतुर्थः सर्गः


स रोहिणीसूनुनिबद्धरागः सतां शरण्यस्तमसोऽपहर्ता ।

मनोहरो बाल इवौषधीशो दिने दिने पोषमियाय शौरिः ॥ ४-०१॥


त्यक्त्वा हरिः स्तैन्यकृतापवादं तच्छैशवं प्राप्य दशान्तरं सः ।

मन्ये तदंहःपरिमार्जनाय गवां परित्राणसमुद्यतोऽभूत् ॥ ४-०२॥


पुत्रे तथोद्योगिनि नन्दगोपो गोपालपुत्राननुनीय सर्वान् ।

त्रातुस्त्रयाणामपि विष्टपानां संरक्षणे तस्य समादिदेश ॥ ४-०३॥


मात्रा कृतस्वस्त्ययनः प्रभाते पित्रा परिष्वज्य चिरं विसृष्टः ।

सहैव रामेण समग्रहर्षः विनिर्ययौ विश्वपतिर्वनाय ॥ ४-०४॥


स प्रातराशी व्यतिषक्तपाणिर्यष्टिं वहन्नंसविषक्तश‍ृङ्गः ।

विमुच्यतां गौरिति सम्भ्रमेण गच्छन् प्रतिद्वारमवोचदुच्चैः ॥ ४-०५॥


निशम्य तस्य ध्वनिमूर्ध्वकर्णाः विलूनपाशा भृशमुत्सुकिन्यः ।

वत्सानपि स्वाननवेक्ष्य गावः ससम्भ्रमं निर्ययुरालयेभ्यः ॥ ४-०६॥


गत्वा पुरस्ताद्गजराजगामी गोष्ठं गरिष्ठो गुणमण्डलेन ।

आपूरयन्मित्रगणागमार्थं पित्रोरभीष्टेन सहैव श‍ृङ्गम् ॥ ४-०७॥


नभस्स्पृशा कर्णपथं गतेन तेनैव संज्ञागवलस्वनेन ।

आदाय तत्तत्परिबर्हजातं सद्यो गृहेभ्यः सुहृदो निरीयुः ॥ ४-०८॥


गवां खुरन्याससमुद्भवेन विषाणसङ्घट्टनजन्मना च ।

प्रसर्पता दिक्षु महास्वनेन घोषः क्षणं घोषमयो बभूव ॥ ४-०९॥


प्रधावनैरुत्प्लुतिभिस्सुदूरं मिथो बलाद्ग्राहविमोचनैश्च ।

समागतैस्तत्र समं सुहृद्भिर्बहुप्रकारं विजहार शौरिः ॥ ४-१०॥


परेण हर्षेण पुराणपुंसः सङ्क्रीडमानस्य समं सुहृद्भिः ।

पवित्रयामास पदाम्बुजोत्थिता करीषधूलिः ककुभां मुखानि ॥ ४-११॥


महर्षयस्तत्र महानुभावाः गृहीतरूपान्तरदुर्न्निरूपाः ।

भवाग्निसन्तापहरे ममज्जुः पदोत्थिते तस्य परागपूरे ॥ ४-१२॥


प्रहर्षमालोकयतां जनानां क्रीडाभिरापाद्य मनोहराभिः ।

उत्थापयामास स चीत्कृतेन गोष्ठे हरिर्गोसमजं शयानम् ॥ ४-१३॥


तस्मिन् गवां पालनकौतुकेन वनाय निर्गछति दैत्यशत्रौ ।

ययुः प्रियाख्यानचिकीर्षयेव दिवाकृतो दिग्वलयं मयूखाः ॥ ४-१४॥


कूलद्रुमाणां कुसुमानि धून्वन् कर्षन् पयश्शीकरमण्डलानि ।

कृष्णं कृतानेकविहारखिन्नं यान्तं सिषेवे यमुनासमीरः ॥ ४-१५॥


परस्य पुंसः पदपङ्कजाभ्यां प्रवेक्ष्यतो गोकुलपालनाय ।

चकार नीहारहरैर्मयूखैः प्रवेशयोग्यानि वनानि भानुः ॥ ४-१६॥


प्रेम्णा परित्यक्तुमशक्नुवन्तं बद्धाञ्जलिं बन्धुजनं निवार्य ।

रामं पुरस्कृत्य समित्रवर्गः विवेश विष्णुर्विपिनान्तराणि ॥ ४-१७॥


अरण्यभूमीरवगाहमानं तमातपक्लान्तमवेक्षमाणः ।

पक्षातपत्रेण परिस्तृतेन वियत्यसेविष्ट विहङ्गराजः ॥ ४-१८॥


मा गच्छ गङ्गे यमुने क्व यासि किं तत्र गोदावरि धावसीति ।

न्यषेधि तत्तद्व्यपदेशपूर्वं मार्गच्युतं गोकुलमच्युतेन ॥ ४-१९॥


प्ररूढसुस्निग्धतृणाङ्कुरासु छायाद्रुमश्यामलितान्तरासु ।

गवां कुलं तत्सुलभोदकासु प्रचारयामास वनस्थलीषु ॥ ४-२०॥


साटोपमान्दोलितलम्बसास्नाः गावश्चरन्त्यो वलमानवालाः ।

त्रुट्यत्तृणस्तोमचटत्कृतिन्यः चक्रुः प्रियं चेतसि चक्रपाणेः ॥ ४-२१॥


हरिन्मणिश्यामरुचीनि तत्र स्वैरं चरन्तीषु तृणानि गोषु ।

शौरिः स्वयं भुक्त इवाप तृप्तिं तृप्यन्त्युदाराः परतर्पणेन ॥ ४-२२॥


सर्वासु कण्डूयनलिप्सयोच्चैरुन्नम्य कण्ठं दधतीषु गोषु ।

बालो हरिर्बाहुसहस्रशून्यं जन्मात्मनो निष्फलमेव मेने ॥ ४-२३॥


परिभ्रमद्गोकुलमुग्रकोपं समुच्चलद्धूलिरटद्विषाणम् ।

स युद्धमुक्ष्णां मदनिर्भराणां प्रविश्य मध्यं शमयाञ्चकार ॥ ४-२४॥


शाखाकराग्रैरवलम्ब्य पृथ्वीं निषेदुषः पुष्पफलावनम्रान् ।

तत्र द्रुमान् सादरमीक्षमाणो जगाम तृप्तिं न कदाऽपि शौरिः ॥ ४-२५॥


अलक्ष्यमूलान्यतिविप्रकर्षाद् घोषानुमेयस्खलितोदकानि ।

उत्तुङ्गरोधस्तरुमण्डलानि निम्नानि दृष्ट्वा नितरां स रेमे ॥ ४-२६॥


अतुच्छगुच्छस्तनभारनम्राः लताः प्रवालाधरलोभनीयाः ।

स तत्र वीक्ष्य भ्रमरालकाढ्यास्तामस्मरत्तामरसाधिवासाम् ॥ ४-२७॥


समुत्सुकं सागरकन्यकायामाक्रष्टुमन्तःकरणं मुरारेः ।

सर्वस्य वेत्ता सरसां स वाचं सङ्कर्षणस्सादरमित्युवाच ॥ ४-२८॥


अन्तस्समीरभ्रमणप्रसङ्गादुदीर्णनादेन गुहामुखेन ।

भूयः प्रयुङ्क्ते पृथिवीधरस्ते गोवर्धनः स्वागतमेष शौरे ॥ ४-२९॥


निशम्य गोवर्धननिर्झराणां धीरध्वनिं कृष्णशिखण्डिनोऽमी ।

मुदा त्वदालोकनजातयेव नृत्यन्ति चक्रीकृतबर्हभाराः ॥ ४-३०॥


पादाविमौ सञ्चरणाय नालमत्रेति मत्वा मृगयूथमेतत् ।

स्वलोचनांशुस्तबकापदेशान्नीलोत्पलैर्भूमिमिवास्तृणाति ॥ ४-३१॥


विकीर्य विष्वग्विपिनद्रुमाणां मधूनि पुष्पस्तबकच्युतानि ।

अर्कांशुतप्तामनिलो धरित्रीं सञ्चारयोग्यां भवतो विधत्ते ॥ ४-३२॥


न भीतिरन्तर्न दृशोश्चलत्वं नास्था तृणेनोत्सुकताऽपि शाबे ।

रूपेण दामोदर मोहितास्ते तिष्ठन्त्यमी काष्ठकृता इवैणाः ॥ ४-३३॥


तेनेति सन्दर्शितमग्रजेन मनोहरं तत्तदवेक्षमाणः ।

गाश्चारयन् शाद्वलिनीषु भूषु रेमे रमाया रमणः प्रकामम् ॥ ४-३४॥


तं तत्र दृष्ट्वा महनीयरूपं शौरिं शबर्यश्चरितार्थनेत्राः ।

फलोपहारैरुपसृत्य वन्यैरवादिषुः प्रश्रयशोभि वाक्यम् ॥ ४-३५॥


इतः पदं नः शरपातमात्रं यायास्सहानेन सुहृद्गणेन ।

अत्रागमिष्यन्ति किरातपुत्राः गवाममूषां परिपालनाय ॥ ४-३६॥


व्याधाहृतैर्वारणकुम्भगर्भात् मुक्ताफलैरामलकाभिरामैः ।

प्रसाधनं त्वां भुवनत्रयस्य प्रसाधयिष्यन्ति किरातकन्याः॥ ४-३७॥


कन्याऽस्ति काचिच्छबरेश्वरस्य या नः कुलानामधिदेवतेव ।

तां सर्वथा दास्यति ते स राजा महान्त्यनर्घाणि च यौतकानि ॥ ४-३८॥


इत्यूचिषीणां शबराङ्गनानामत्यादरं चेतसि वीक्षमाणः ।

कृष्णः कृपानिघ्नमनास्स वाचमित्याह लज्जामृदुना स्वनेन ॥ ४-३९॥


पित्रोरनुज्ञामधिगम्य भद्राः समीहितं वः सकलं विधास्ये ।

मयि स्थिते तिष्ठति गोकुलं तद्गच्छामि मा भूत विषादवत्यः ॥ ४-४०॥


गते पुलिन्दीरिति सान्त्वयित्वा तदिष्टभङ्ग्व्यथिते मुकुन्दे ।

फलापचायादिषु निस्पृहास्ताः शनैर्ययुः पक्कणमेव खिन्नाः ॥ ४-४१॥


विहृत्य गर्भेषु लतागृहाणां निपीय वारीणि च पल्वलानाम् ।

फलानि चास्वाद्य महीरुहाणां वनानि धन्यानि चकार शौरिः ॥ ४-४२॥


अथाधिरूढे गगनस्य मध्यं दिवाकरे दुःसहभानुजाले ।

घर्माकुलं गोकुलमीक्षमाणः हलायुधः प्राह रथाङ्गपाणिम् ॥ ४-४३॥


किञ्चित्परिम्लानलताप्रवालस्तृणाङ्कुरभ्रान्तकुरङ्गयूथः ।

अह्नः परित्यक्तजनप्रचारः प्रवर्तते मध्यम एष भागः ॥ ४-४४॥


कुलानि वीक्षस्व विहङ्गमानां पक्षान्तरस्थापितशाबकानि ।

कठोरमेनं गमयन्ति कालं नीडेषु निद्रालसलोचनानि ॥ ४-४५॥


प्रायः कठोरातपपीडयेव छायाः परित्यक्तबहिर्विहाराः ।

आलोकयाध्वन्यजनेन सार्द्धमध्यासते मूलमनोहकानाम् ॥ ४-४६॥


करैरसह्यैरयमंशुमाली तपन् महीमुग्र इव क्षितीशः ।

आशंसितापत्प्रसरः प्रजाभिर्धत्ते दशामद्य विगर्हणीयाम् ॥ ४-४७॥


विहृत्य कान्तारमहीषु वेगाद्व्रजन्नपः पुष्करिणीषु पातुम् ।

मार्गे करीन्द्रः करशीकरेण प्रियामसावुक्षति तापखिन्नाम् ॥ ४-४८॥


तप्तानि भासा तपनस्य हंसाः विहाय वारीणि नखंपचानि ।

पत्रेषु विन्यस्य पदानि मन्दं पद्माकरे सम्प्रति पर्यटन्ति ॥ ४-४९॥


निगूढमीनग्रहणाभिसन्धिं कृछ्रेण मुक्त्वा कपटासिकां स्वाम् ।

अमी बकोटास्तपनांशुतापात्तटीनिकुञ्जं तरसा विशन्ति ॥ ४-५०॥


तदेहि यामस्तरुषण्डमेतद् घर्माकुलं गोकुलमानयामः ।

अत्रैव विश्रम्य मुहूर्तमात्रं भूयोऽपि गावः प्रचरन्त्वरण्ये ॥ ४-५१॥


इतीरितं तत्समयानुरूपं वाक्यं समाकर्ण्य हलायुधस्य ।

आर्यो यथाज्ञापयतीति कृष्णस्तं राममुक्त्वा तरुषण्डमाप ॥ ४-५२॥


अलब्धमार्ताण्डकरप्रवेशमारामकल्पं तरुषण्डमेत्य ।

आनेतुकामः स गवां कुलं तदासज्जयामास मुखेन वेणुम् ॥ ४-५३॥


सलीलमीषत्परिवृत्तपादं सविभ्रमोदञ्चितसव्यनेत्रम् ।

कृष्णस्य वंशार्पितपाटलोष्ठं वीक्ष्य स्थितं विस्मयमाप लोकः ॥ ४-५४॥


तत्र स्थितं तामरसायताक्षं तापिञ्छवर्णं शिखिपिञ्छचूडम् ।

तमेव पश्यन्ननिमेषतायाः फलं प्रपेदे सुरसिद्धसङ्घः ॥ ४-५५॥


स्थितस्त्रिभङ्ग्या विवरेषु वेणोर्व्यापारयन्नङ्गुलिपल्लवानि ।

जगत्त्रयीमोहविधानदक्षमुत्थापयामास स नादमुच्चैः ॥ ४-५६॥


अथोत्थितानन्दनिमीलिताक्ष्यः विलूनदूर्वाङ्कुरलाञ्छितास्याः ।

गावस्तदभ्याशमुपेत्य तस्थुः निस्पन्ददेहा निभृतैः श्रवोभिः ॥ ४-५७॥


नैसर्गिकं वैरमपत्यसङ्गस्तृष्णा बुभुक्षा कुसुमायुधश्च ।

तद्वेणुनादश्रुतितत्पराणां नालं विधातुं विकृतिं तिरश्चाम् ॥ ४-५८॥


तस्मिन् मनोहारिणि चक्रपाणेर्वनान्तरे मूर्छति वंशनादे ।

विधीयमानं परिहृत्य कर्म सर्वेऽपि सत्वा लिखिता इवासन् ॥ ४-५९॥


प्रवृत्तमात्रौ वनपद्मिनीषु दातुं गृहीतुं च मृणालभङ्गम् ।

चक्राह्वयस्तद्गृहमेधिनी च प्रसार्य चञ्चू परमासिषाताम् ॥ ४-६०॥


उपाविशन्नुज्झितचापलानि स्वजानुविन्यस्तकराननानि ।

निष्पन्ददृष्टीनि वनद्रुमाणां शाखासु शाखामृगमण्डलानि ॥ ४-६१॥


पद्भ्यामवष्टभ्य महीमुभाभ्यां सद्यस्समुत्तम्भितपूर्वकायः ।

सिंहः करीन्द्राक्रमणे प्रवृत्तस्तस्थौ तथा कृत्रिमसिंहकल्पः ॥ ४-६२॥


सिद्धाः कलत्राणि लतागृहेषु समुद्यताः पाययितुं मधूनि ।

करद्वयोदञ्चितरत्नपात्राः निषेदुरालेख्यमिव प्रपन्नाः ॥ ४-६३॥


तद्वंशनालाच्च्युतमच्युतस्य गेयामृतं साधु निषेव्य वृक्षाः ।

चिरं जराजर्जरितत्वचोऽपि बाला इवासन्नवपल्लवाढ्याः ॥ ४-६४॥


नादेन वेणोर्विवशीकृतानां विद्याधराणां गलिताः करेभ्यः ।

गतिर्भवास्माकमपीति नूनं वीणा निपेतुर्मधुविद्विषोऽग्रे ॥ ४-६५॥


स्ववेणुनादेन स जीवलोकमित्थं परानन्दमयं विधाय ।

प्रभुर्व्यरंसीदमराश्च सर्वे सुप्तोत्थितानां स्थितिरन्वभूवन् ॥ ४-६६॥


प्रत्यागते चेतसि ते विदित्वा प्रभ्रश्य हस्तात् पतिता विपञ्चीः ।

पुनर्न्न चक्रुः प्रतिपन्नलज्जाः विद्याधरास्तद्ग्रहणाभिलाषम् ॥ ४-६७॥


मधुव्रतानां ध्वनिभिर्मनोज्ञैर्वाचालयन्ती वलयं दिशानाम् ।

प्रसूनवृष्टिः सुरसिद्धमुक्ता पपात मौलौ परमस्य पुंसः ॥ ४-६८॥


अवर्षि केनायमदृष्टपूर्वः प्रसूनराशिस्तव मूर्धनीति ।

पृष्टो विहस्याह विभुस्सहायान् ज्ञानं भवद्भोऽपि कथं ममेति ॥ ४-६९॥


विषह्यतां याति विवस्वदंशौ विश्रान्तमुत्थाप्य गवां स पुञ्जम् ।

भूयस्तृणाश्यामलभूतलेषु प्रारब्ध सञ्चारयितुं वनेषु ॥ ४-७०॥


ततः परिक्षीणसहस्रभानोरशाम्यदूष्मा दिवसस्य तीव्रः ।

यथा विनाशे धनसञ्चयस्य महावलेपो धनिनो जनस्य ॥ ४-७१॥


प्रभाकरे पाटलभासि दूरं दिशं प्रतीचीमवगाहमाने ।

आलोक्य रामः परिणाममह्नो दामोदरं सादरमित्युवाच ॥ ४-७२॥


आविर्भवन्मन्दमरुत्प्रचारा शान्तातपा निर्वृतसर्वसत्वा ।

विरामवेला दिवसस्य शौरे प्रवर्तते पश्य मनोभिरामा ॥ ४-७३॥


शिरोभिरूढेन्धनशाकमूलाः स्वयूथ्यमुच्चैःस्वरमाह्वयन्तः ।

वनेचरा वीक्ष्य विराममह्नः समारभन्ते सहसैव गन्तुम् ॥ ४-७४॥


शतं शतं व्योमनि बद्धमालाः शात्कारवाचालविलोलपक्षाः ।

व्रजन्ति लक्ष्मीकृतवासवृक्षाः मनोजवाः पश्य पतत्रिणोऽमी ॥ ४-७५॥


भुवः परागे बहुशो लुठित्वा प्रविश्य नीडं कलविङ्गयूथम् ।

धिनोत्यपत्यानि बुभुक्षितानि ग्रासेन चञ्चूपुटसञ्चितेन ॥ ४-७६॥


तदेहि शौरे तपनव्यपायात्प्रागेव यामः पदमस्मदीयम् ।

इयं क्षतिः श्वभ्रतटेन पश्चाद्दुःसञ्चरा लुब्धकनिर्मितेन ॥ ४-७७॥


श्रुत्वेति रामस्य गिरं मुरारिः अस्त्वेवमित्यादरपूर्वमुक्त्वा ।

सह प्रतस्थे स च मित्रवर्गैः प्रचण्डश‍ृङ्गध्वनिपूरिताशैः ॥ ४-७८॥


सहप्रयाणाय कृतत्वराणामूधोभराद्दूरविलम्बिनीनाम् ।

स तत्र तत्र प्रतिपाल्य तस्थौ प्रीतो गवामागमनं मुकुन्दः ॥ ४-७९॥


समावृतो गोपजनेन नन्दः गोपाङ्गनाभिश्च वृता यशोदा ।

अतिष्ठतामध्वनि लोचनाभ्यां पुत्रागतिप्रेक्षणसस्पृहाभ्याम् ॥ ४-८०॥


चकार कर्णेषु तयोः प्रमोदं दामोदरापूरितश‍ृङ्गनादः ।

दिवि प्रसर्पन्नथ पांसुपूरः नेत्रेषु पीयूषमिवाभ्यवर्षत् ॥ ४-८१॥


तौ धूसराङ्गौ रजसा कुमारौ गत्वा स नन्दः परिरभ्य गाढम् ।

आत्मानमानन्दसमुद्रमग्नं नालं समुद्धर्तुमभून्मुहूर्तम् ॥ ४-८२॥


उत्पत्य धावद्भिरुदस्तशस्त्रैः क्ष्वेलारवक्षोभितदिग्विभागैः ।

आभीरवीरैस्स वृतः प्रपेदे व्रजं समाकर्णिततूर्यघोषम् ॥ ४-८३॥


चाटूक्तिभिः पार्श्वचरानशेषान् विसृज्य गोपान् सहितस्स मित्रैः ।

विवेश कृष्णो भवनं दिनान्ते समुज्वलन्मङ्गलदीपिकाभिः ॥ ४-८४॥


कामं दिवा कर्णपथं गतेन नीताः प्रियं वेणुरवेण विष्णोः ।

प्रतिप्रियं चक्रुरमुष्य सायं गावः पयोदोहननिःस्वनेन ॥ ४-८५॥


अनुदिनमिति कुर्वन् पालनं गोकुलस्य

क्षणमिव दिवसानि क्रीडया यापयन् सः ।

अखिलमपि धरित्रीभारमभ्युद्धरिष्यन्

अरमत सह शौरिस्तत्र सङ्कर्षणेन ॥ ४-८६॥


इति सुकुमारकृतौ कृष्णविलासकाव्ये चतुर्थः सर्गः ॥ ४ ॥

No comments:

Post a Comment