Wednesday, November 19, 2025

Krishna Karnamrutham by Leela Sukar

Sri:
Krishna Karnamrutham by Leela Sukar - Selected Verses
श्रीकृष्णकर्णामृतम्

Peacock Feathers
1.24 शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः ।
युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥ १.२४॥

Last moments
1.38 यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८॥

Far for Rishis, nearby to Gopikas
1.48 परामृश्यं दूरे परिषदि मुनीनां व्रजवधू-
दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् ।
अनामृश्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १.४८॥

1.49 लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
देवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९॥

1.59 बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।
शीलैरल्पधियामगम्यविभवैः श‍ृङ्गारभङ्गीमयं
चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥ ११.५९॥

Kayambhu color and mandasmitha laugh
1.72 तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥ १.७२॥

1.81 सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी ।
सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १.८१॥

2.1 अभिनवनवनीतस्निग्धमापीतदुग्धं
दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः ।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ-
च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः ॥ २.१॥

Will i be not born as a bamboo to be a flute in krishna's hands
2.9 अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः ।
अनुभवति य एषः श्रीमदाभीरसूनो-
रधरमणिसमीपन्यासधन्यामवस्थाम् ॥ २.९॥

Butter Boy
2.15 वदने नवनीतगन्धवाहं वचने तस्करचातुरीधुरीणम् ।
नयने कुहनाश्रुमाश्रयेथाश्चरणे कोमलताण्डवं कुमारम् ॥ २.१५॥

2.17 जगदादरणीयजारभावं जलजापत्यवचोविचारगम्यम् ।
तनुतां तनुतां शिवेतराणां सुरनाथोपलसुन्दरं महो नः ॥ २.१७॥

Yasodha Giving bath to Krishna
2.27 यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा वाराहजन्मनि बभूवुरमी समुद्राः ।
तं नाम नाथमरविन्ददृशं यशोदा पाणिद्वयान्तरजलैः स्नपयां बभूव ॥ २.२७॥

Upanishad thathvam is tied in Ulookam
2.28 वरमिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तचारखिन्नः ।
विचिनुत भवनेषु वल्लवीनाम् उपनिषदर्थम् उलूखले निबद्धम्  ॥ २.२८॥

2.30 भासतां भवभयैकभेषजं मानसे मम मुहुर्मुहुर्मुहुः ।
गोपवेषमुपसेदुषस्स्वयं यापि कापि रमणीयता विभोः ॥ २.३०॥

 Krishna and Horses
2.47 नखनियमितकण्डून् पाण्डवस्यन्दनाश्वाननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।
अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलिर्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥ २.४७॥

Gopikas selling strategy
2.55 विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति ॥ २.५५॥

Yasodha asking Kanna to Drink milk
2.60 कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपराः श‍ृत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ २.६०॥

Rukmani's pearl chain she saw Krishna's image during marriage
2.62 किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः ।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥ २.६२॥

Maayan surprised his mother yasodha ate mud and showed entire universe in his mouth
2.64 कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत्
माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥ २.६४॥

Star Wars
2.65 स्वाती सपत्नी किल तारकाणां मुक्ताफलानां जननीति रोषात् ।
सा रोहिणी नीलमसूत रत्नं कृतास्पदं गोपवधूकुचेषु ॥ २.६५॥

Two Kannan reflection in rathna Pillar
2.66 नृत्यन्तमत्यन्तविलोकनीयं कृष्णं मणिस्थम्भगतं मृगाक्षी ।
निरीक्ष्य साक्षादिव कृष्णमग्रे द्विधा वितेने नवनीतमेकम् ॥ २.६६॥

Suprabhatam to Krishna
2.67 वत्स जागृहि विभातमागतं जीव कृष्ण शरदां शतं शतम् ।
इत्युदीर्य सुचिरं यशोदया दृश्यमनवदनं भजामहे ॥ २.६७॥

2.68 दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥ २.६८॥

Krishna listens to Ramanyana Story
2.71 रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु-
र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः ।
निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः श‍ृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥ २.७१॥
151-Articles Tamil-The Story heard by Kannan கண்ணன் கேட்ட கதை-https://sarvamsrikrishnarpanam.blogspot.com/2023/01/story-heard-by-kannan.html

Gopika dress cloth stolen by kannan
2.93 मुरारिणा वारिविहारकाले मृगेक्षणानां मुषितांशुकानाम् ।
करद्वयं वा कचसंहतिर्वा प्रमीलनं वा परिधानमासीत् ॥ २.९३॥

Indra Neela Stone delivered by Devaki
2.96 देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना ।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥ २.९६॥

2.104 आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥ २.१०४॥

Rukmani's words - all hail you Giridhari but ....
2.105 उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः ।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥ २.१०५॥

Sandhyavandana & Karma Rituals
2.106 सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् ।
यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ २.१०६॥
Read 205-Articles English-Karmaanushtanam & Kamsa Vadham   -https://sarvamsrikrishnarpanam.blogspot.com/2024/10/karmaanushtanam-kamsa-vadham.html

3.3 करिणामलभ्यगतिवैभवं भजे करुणावलम्बितकिशोरविग्रहम् ।
यमिनामनारतविहारि मानसे यमुनावनान्तरसिकं परं महः ॥ ३.३॥

3.18 लावण्यवीचीरचिताङ्गभूषां भूषापदारोपितपुण्यबर्हाम् ।
कारुण्यधारालकटाक्षमालां बालां भजे वल्लववंशलक्ष्मीम् ॥ ३.१८।

Teasing conversion between gopika and krishna
3.105 अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः
इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ३.१०५॥

Great offerings listed
3.107 या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते ।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥ ३.१०७॥

No comments:

Post a Comment