Sri:
Devarajaashtakam
Stotram comprising 8 Slokams on Kanchi Varadan
by Sri Thirukacchi Nambhigal alias Kanchi Poornar
देवराजाष्टकम् - श्रीकाञ्चीपूर्णाः
श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् ।
वरदांघ्रिसदासङ्गरसायनपरायणम् ॥
देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् ।
रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥
1 नमस्ते हस्तिशैलेश! श्रीमन्नम्बुजलोचन! ।
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत! ॥ १ ॥
2 समस्तप्राणिसन्त्राणप्रवीणकरुणोल्बण ।
विलसन्तु कटाक्षास्ते मय्यस्मिन् जगतां पते! ॥ २ ॥
3 निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः ।
पापीयांसममर्यादं पाहि मां वरदप्रभो! ॥ ३ ॥
4 संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे ।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४ ॥
5 पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले ।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५ ॥
6 अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् ।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥ ६ ॥
7 सन्तप्तं विविधैर्दुःखैर्दुर्वचैरेवमादिभिः ।
देवराज! दयासिन्धो! देवदेव! जगत्पते! ॥ ७ ॥
8 त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः ।
कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥
No comments:
Post a Comment