श्री नरसिंह प्रपत्ति स्तोत्र || Sri Narasimha Prapatti Stotram
माता नृसिंहः पिता नृसिंहः भ्राता नृसिंहः सखा नृसिंहः ।
विद्या नृसिंहो द्रविणं नृसिंहः स्वामी नृसिंहः सकलं नृसिंहः ॥१॥ 1
इतो नृसिंहः परतो नृसिंहः यतो यतो याहि ततो नृसिंहः ।
नृसिंह देवात्परो न कश्चित् तस्मान्नृसिंहं शरणं प्रपद्ये ॥२॥ 2
Pata Bhedham :
इतो नृसिंहः परतो नृसिंहः यतो यतो यामि ततो नृसिंहः ।
बहिर्नृसिंहो हृदये नृसिंहो नृसिंहमादिं शरणं प्रपद्ये ॥२॥ 2
No comments:
Post a Comment